🕉️ 19 November 2026, Thursday · 09:39:21 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

देवता
devatā
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
'देवता' स्त्रीलिङ्ग (1.1.9)
विवस्वान् (3.3.64) सूर्य
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
देव—ता See देवता.
देवता f. godhead, divinity (abstr. & concr.), RV.; AV.; Br. &c.
image of a deity, idol, Mn. iv, 130; MBh.; Pur. (ifc. -क, Kull. viii, 105)
N. of the organs of sense (cf. देव), ŚBr. ii, 5, 2, 2 &c.
देवता ind. with divinity i.e. with a god (gods) or among the gods, RV.; AV.
📄 मूल मुद्रित पृष्ठ (493,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
देवता 1 Divine dignity or power of divinity. --2 A deity, god; Ku. 1. 1. --3 The image of a deity. --4 An idol. --5 An organ of sense. --Comp. --अगारः, --रं, --आगारः, --रं, --गृहं --स्थानं a temple. --अधिपः an epithet of Indra. --अभ्यर्चनं worshipping a deity. --आत्मन् a. of a divine nature. [] Ku. 1. 1. --आयतनं, --आलयः, --वेश्मन् n. a temple or chapel. --प्रतिमा the image of a god, an idol. --स्नानं the ablution of an idol.
📄 मूल मुद्रित पृष्ठ (0580-a)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
देवता स्त्री देव + स्वार्थे तल् “क्वचित् स्वार्थिका अपि प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते” भाष्योक्तेः पुंस्त्वाति- क्रमेण स्त्रीत्वम् । देवे निर्जरे । देवतात्वञ्च “वेदमेयत्यागो- द्देश्यत्वम् उद्देश्यत्वञ्च तस्येदमित्यारोपज्ञानविषययत्व- मिति” श्राद्धविवेकः । तच्च मन्त्रस्तुत्यत्वं वा । तदुभयं पितॄ- नामप्यस्तीति श्राद्धादौ तेषां देवतात्वम् । मन्त्रेण द्यो- त्यत्वं वा देवतात्वं यथाह ऋग्वेद भाष्योपोद्घाते माधवः “तथा देवनार्थदीव्यतिधातुनिमित्तो देवशब्द इत्येतदाम्ना- यते । “देवनाद्वैदेवोऽभूदिति तद्देवानां देवत्वमिति” । अतो दीव्यतीति देवः मन्त्रेण द्योत्यत इत्यर्थः । “यस्य यस्य तु मन्त्रस्य उद्दिष्टा देवता तु या । तदाकारं भवे- त्तस्य देवत्वं देवतोच्यते” योगियाज्ञ० । वैदिकमन्त्रभेदे देवता- भेदाः सर्वानुक्रमिकायामुक्तास्ततएवावसेयाः । तन्मूलं हेमा० ब्र० ख० उक्तमिह विस्तरभयानोद्धृतम् । मन्त्राणां तज्ज्ञाने फलमज्ञाने निन्दामाह हेमा० ब्र० योगियाज्ञ- “आर्षं छन्दो दैवतञ्च विनियोगस्तथैव च । वेदितव्यं [] प्रयत्नेन व्राह्मणेन विशेषतः । अविदित्वा तु यः कुर्याद् यजनाध्ययनं जपम् । होममन्तर्जले दानं तस्य चाल्प- फलं भवेत्” । तथा “यो विजानाति मन्त्राणामार्षं छ- न्दश्च दैवतम् । विनियोगं व्राह्मणञ्च मन्त्रार्थं ज्ञानकर्म च । एकैकस्य ऋषेः सोऽपि वन्द्योह्यतिथिवद्भवेत् । देव- तायाश्च सायुज्यं गच्छत्यत्र न संशयः । पूर्वोक्तेन प्र- कारेण ऋष्यादीन् वेत्ति यो द्विजः । अधिकारो भवेत्तस्य रहस्यादिषु कर्मसु” । ब्राह्मणेन मन्त्रेतरवेदभागेन सह वेदितव्यमित्यर्थः उत्तरत्र विनियोगव्राह्मण- योर्ज्ञेयतया निर्देशात् । तन्निरुक्तिरपि तेनैवोत्तरत्र दर्शिता यथा “नैरुक्त्यं यस्य मन्त्रस्य विनियोग प्रयोजनम् । प्रतिष्ठानं स्तुतिश्चैव ब्राह्मणं तदिहोच्यते । एवं पञ्चविधं योगं जपकाले ह्यनुस्मरेत् । होमे चान्त- र्जले योगे स्वाध्याये यजने तथा” इति । २ प्रदेयद्रव्य- स्याधिपतौ च दानशब्दे ३५१९ पृ० तद्विशेषो दृश्यः । देवताभेदाश्च निरुक्ते दैवतकाण्डे उक्ता यथा “अग्न्यादिदेवपत्न्यन्तं देवताकाण्डमुच्यते । वाय्वादयो भगान्ताः स्युरन्तरिक्षस्थदेवताः । सूर्य्यादिदेवपत्न्यन्ता द्युस्थाना देवता इति” । त्रयस्त्रिंशत्पतिशब्दे ३३५९ पृ० देवतानां प्राधान्यतस्त्रयस्त्रिं शत्त्वमुक्तं किन्तु स्वस्वगण- पत्नीसहितानां तासां त्रयस्त्रिंशत्कोटिसंख्यात्वं य- थोक्तं पद्मपु० उत्तरख० “सदारा विबुधाः सर्वे स्वानां स्वानां गणैः सह । त्रैलोक्ये ते त्रयस्त्रिंशत्कोटिसंख्यतयाऽ- भवन्” । तेषां गणभेदाश्च गणदेवताशब्दे २५०२ पृ० उक्ताः दृश्याः । तन्मध्येऽधिकारिभेदेन देवताभेदा यथा “या यस्याभिमता पुंसः सा हि तस्यैव देवता । किन्तु कार्य विशेषेण पजिता चेष्टदा नृणाम् । विशेषात् सर्वदा नायं नियमोह्यन्यथा नृप! । नृपाणां दैवतं विष्णुस्तथैव च पुरन्दरः । विप्राणामग्निरादित्यो ब्रह्मा चैव पिनाक- धृक् । देवानां दैवतं विष्णुर्दानवानां त्रिशूलभृत् । गन्धर्वाणां तथा सोमो यक्षाणामपि कथ्यते । बिद्याध- राणां वाग्देवी साध्यानां भगवान् हरिः । रक्षसां शङ्करो रुद्रः किन्नराणाञ्च पार्वती । ऋषीणां दैवतं व्रह्मा महादेवश्च क्षूलभृत् । मनूनां स्यादुमा देवी तथा विष्णुः समास्करः । गृहस्थानाञ्च सर्वे स्युर्ब्रह्मा वै ब्रह्मचारिणाम् । वैखानसस्याम्बिका स्याद् यतीनाञ्ज महे- श्वरः । नतानां भगवान् रुद्रः कुष्माण्डानां विनायकः । सर्वेषां भगवान् ब्रह्मा देवदेवः प्रजापतिः । इत्येवं भग- [] वान् व्रह्मा स्वयं देवोऽभ्यभावत” इति कूर्म० पु० । देवानां वर्णभेदा भा० शा०
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
देवता, स्त्री, (देव एव । स्वार्थे तल् ।) देवं द्युतिं क्रीडांवा तनोति या । तत्पर्य्यायः । अमरः २ निर्ज्जरः ३ देवः ४ त्रिदशः ५ विबुधः ६ सुरः ७ सुपर्व्वा ८ सुमनाः ९ त्रिदिवेशः १० दिवौकाः ११ आदितेयः १२ दिविषत् १३ लेखः १४ अदिति- नन्दनः १५ आदित्यः १६ ऋभुः १७ अस्वप्नः १८ अमर्त्यः १९ अमृतान्धाः २० बर्हिर्मुखः २१ क्रतुभुक् २२ गीर्व्वाणः २३ दानवारिः २४ वृन्दारकः २५ दैवतम् २६ । इत्यमरः । १ । १ । ९ ॥ स्वाहाभुक् २७ दनुजद्विट् २८ द्युषत् २९ दौषत् ३० स्वर्गी ३१ शौभः ३२ निलिम्पः ३३ सुचि- रायुः ३४ स्थिरः ३५ । इति शब्दरत्नावली ॥ तस्याः संख्या त्रयस्त्रिंशत्कोटयः । यथा, -- “सदारा विबुधाः सर्व्वे स्वानां स्वानां गणैः सह । त्रैलोक्ये तत्त्रयस्त्रिंशत्कोटीसंख्या यथा भव ॥” इति पाद्मोत्तरखण्डम् ॥ * गणदेवता यथा, -- “आदित्यास्तुषिता विश्वसाध्याभास्वरमारुताः । महाराजिकरुद्राश्च वसवो गणदेवताः ॥ आदित्या द्वादश प्रोक्तास्तुषितास्त्रिंशदेव हि । विश्वेदेवा दश प्रोक्ताः साध्या द्वादश कीर्त्तिताः ॥ आभास्वराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः । महाराजिकनामानो द्वे शते विंशतिस्तथा । [] रुद्रा एकादश प्रोक्ता वसवोऽष्टौ समीरिताः ॥” इति शब्दरत्नावली ॥ * ॥ तेषां चत्वारो वर्णा यथा, -- “आदित्याः क्षत्त्रियास्तेषां विशश्च मरुतस्तथा । अश्विनौ च स्मृतौ शूद्रौ तपस्युग्रे समास्थितौ ॥ स्मृतास्त्वाङ्गिरसा देवा ब्राह्मणा इति निश्चयः । इत्येतत् सर्व्वदेवानां चातुर्व्वर्ण्यं प्रकीर्त्तितम् ॥” इति महाभारते मोक्षधर्म्मः ॥ * ॥ वैष्णवानां पञ्चदेवता यथा, -- “यत्र यत्र सुराः पूज्या गणेशाद्यास्तु कर्म्मिणाम् । विष्ण्वर्च्चने तत्र तत्र वैष्णवानां हि वैष्णवाः ॥ विश्वक्सेनं ससनकं सनातनमतःपरम् । सनन्दं सनत्कुमारञ्च पञ्चैवं पूजयेत्ततः ॥” इति पाद्मे उत्तरखण्डम् ॥ * ॥ देवषट्कं यथा, -- “गणेशञ्च दिनेशञ्च वह्निं विष्णुं शिवं शिवाम् । देवषट्कञ्च संपूज्य नमस्कृत्य विचक्षणः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ अपि च । “आदित्यं गणनाथञ्च देवीं रुद्रं यथाक्रमम् । नारायणं विशुद्धाख्यमन्ते च कुलदेवताः ॥” इत्याह्निकतत्त्वम् ॥ * ॥ व्यक्तिविशेषस्य उपास्यदेवता यथा, -- “या यस्याभिमता पुंसः सा हि तस्यैव देवता । किन्तु कार्य्यविशेषेण पूजिता चेष्टदा नृणाम् ॥ विशेषात् सर्व्वदा नायं नियमो ह्यन्यथा नृपाः । नृपाणां दैवतं विष्णुस्तथैव च पुरन्दरः ॥ विप्राणामग्निरादित्यो ब्रह्मा चैव पिनाकधृक् । देवानां दैवतं विष्णुर्दानवानां त्रिशूलभृत् ॥ गन्धर्व्वाणां तथा सामो यक्षाणामपि कथ्यते । विद्याधराणां वाग्देवी साध्यानां भगवान् हरिः ॥ रक्षसां शङ्करो रुद्रः किन्नराणाञ्च पार्व्वती । ऋषीणां दैवतं ब्रह्मा महादेवश्च शूलभृत् ॥ मनूनां स्यादुमा देवी तथा विष्णुः सभास्करः । गृहस्थानाञ्च सर्व्वे स्युर्ब्रह्मा वै ब्रह्मचारिणाम् ॥ वैखानसामम्बिका स्याद्यतीनाञ्च महेश्वरः । भूतानां भगवान् रुद्रः कुष्माण्डानां विनायकः ॥ सर्व्वेषां भगवान् ब्रह्मा देवदेवः प्रजापतिः । इत्येवं भगवान् ब्रह्मा स्वयं देवोऽभ्यभाषत ॥” इति कूर्म्मपुराणम् ॥ * ॥ सामान्यदेवघट्टनदिनं यथा, -- तत्रोक्तनक्षत्रानि । उत्तरफल्गुन्युत्तराषाढोत्तर- भाद्रपद्रोहिणी चित्रानुराधा मृगशिरो रेवती पुष्योऽश्विनी हस्ता शतभिषा श्रवणा स्वाती पुन- र्व्वसुर्धनिष्ठा । तत्र तिथयः शुभाः । तत्र चन्द्र- स्तृतीयदशमसप्तमजन्मैकादशस्थः शोभनः ॥ अथ सामान्यदेवप्रतिष्ठादिनम् । तत्र मासाः । माघ- फाल्गुनचैत्रवैशाखज्यैष्ठाः हरिशयनात् पूर्व्व- माषाढश्च । तत्र नक्षत्राणि धनिष्ठाशतभिषा- श्लेषामधापुनर्व्वस्वश्विनीभरणीकृत्तिकाविशाखा- भिन्नानि । तत्र तिथयः शुभाः । तत्
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "देवता" आता है (60)
ऋभु एक गण देवतासुर देवतादेवक देवतादैवत देवता संबंधीवपुन देवतावसुल देवतादेवयु ईश्वर ।देवताठक्कुर देवता । ठाकुर । पूज्य प्रतिमाअस्वप्न देवतावृंदारक देवताआधिदैविक लि॰ देवताओं द्वारा प्रेरित । यक्ष, देवता, भूत॰ प्रेत आदि द्वारा होनेवा…काश्यपेय सूर्य । दिवाकर । देवतासुमन देवता । पंडित । विद्रान्त्रिदश देवतादैवत्य देव । देवतानभोगति वह जो आकाश में चलता हो । जैसे, पक्षी, देवता, ग्रह आदिअमृताशन देवतागीर्वाण देवता । सुरदिविष्ठ स्वर्ग में रहनेवाले, देवतानिध्यान दर्शन । देवतासोमयोनि देवतात्रिदिवेश देवतात्रैविष्टपेय देवतादेवभू देवतानाकचर देवता । सूरअदितिज देवतानाकसद् देव । देवतादक्षसुत देवता । सुरदेवताति देवता । ईश्वरअमृतबंधु देवताअग्निजिह्व देवता । अमर । २ विष्णुनभोग आकाश में चलनेवाले पक्षी, देवता, ग्रह आदिसुमनस देवताअमर जो मरे नहीं । चिरजीवीदेव स्वर्ग में रहने या क्रीड़ा करनेवाला अमर प्राणी । दिव्य शरीर धारी । देव…शौभ चिकनी सुपारीनहुष अयोध्या के एक प्राचीन इक्ष्वाकुवंशी राजा का नाम जो अंबरीष का पुत्र और …तैतिल ग्यारह करणों में से चौथा करण । विशेष—फलित ज्योतिष के अनुसार इस करण में…विबुध पंडित । बुद्धिमान्आदित्य अदिति के पुत्रकामरूप आसाम का एक जिला जहाँ कामाक्ष देवी का स्थान है । इसका प्रधान नगर गौहाटी…यज्ञिय यज्ञ संबंधी । यज्ञोपयुक्तसुनासीर इंद्रमधुप भौरामुचिर दाता । दानशील । उदारगगनेचर ग्रह । नक्षत्रनभश्चर पक्षीनिर्जर जिसे कभी बुढा़पा न आवे । कभी बुड्ढा न होनेवालामहावीर हनुमान जीदानवारि विष्णुबालग्रह बालकों के प्राणघातक नौ ग्रह जिनके नाम ये हैं—(१) स्कंद, (२) स्कंदापस्म…विबुधान पंडित । बुद्धिमान । विज्ञ । आचार्य । शिक्षकसर्वज्ञ सब कुछ जाननेवाला । जिसे कुछ अज्ञात न होगगनाध्वग सूर्यविवस्वत् सूर्यअमृतप अमृत पान करनेवालागगनचर पक्षीगगनगति वह जो आकाश में चले । आकाश- चारीवैहायस एक सरोवरअन्यव्रत अन्यधर्मानुगामी । अनार्य । विशेष—अनार्यों की अपनी भाषाएँ थी जो आर्यों …
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें