🕉️ 20 November 2026, Friday · 12:14:41 PM · CDSHARMA.IN

📚 उमा संस्कृत-हिन्दी महाशब्दकोश

अर्थ · व्याकरण · व्युत्पत्ति · पर्याय · समास · शास्त्रीय उद्धरण — पाँच प्रामाणिक कोश व अमरकोश एक साथ

279,511 शीर्ष-शब्द · 452,554 कोश-प्रविष्टियाँ

वस्त्र
vastra
🟠 शब्दसागर🔵 मोनियर-विलियम्स🟣 आप्टे🟢 वाचस्पत्यम्🟤 शब्दकल्पद्रुम
📗 अमरकोश — पर्याय
कशिपु (3.3.138) अन्न
🟠 हिन्दी शब्दसागरहिन्दी में अर्थ
वस्त्र संज्ञा पुं॰ [सं॰]
१. कपड़ा ।
२. पहनावा । पोशाक (को॰) ।
३. दारचीनी का पत्ता (को॰) ।
वस्त्र संज्ञा पुं॰ [सं॰]
१. दिन ।
२. घर । मकान ।
२. निवास ।
३. वह स्थान जहाँ मार्ग मिलें चौराहा ।
स्रोत: हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
🔵 मोनियर-विलियम्स संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
वस्त्र n. (or m. g. अर्धर्चादि; ifc. f(आ). ) cloth, clothes, garment, raiment, dress, cover, RV. &c. &c.
वस्त्र n. a leaf of the cinnamon tree, L.
📄 मूल मुद्रित पृष्ठ (932,1)
स्रोत: Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
🟣 आप्टे संस्कृत-अंग्रेज़ी कोशअंग्रेज़ी में अर्थ
वस्त्रं [वस्-ष्ट्रन्] 1 A garment, cloth, clothes, raiment. --2 Dress, apparel. --Comp. --अगारः --रं, --गृहं a tent. --अंचलः, --अंतः the hem of a garment. --आगारं a clothier's shop. --कुट्टिमं {1} a tent. {2} an umbrella. --ग्रंथिः the knot of the lower [] garment (which fastens it near the navel); cf. नीबि. --निर्णेजकः a washerman. --परिधानं putting on garments, dressing. --पुत्रिका a doll, puppet. --पूत a. filtered through a cloth; वस्त्रपूतं पिबेज्जलं Ms. 6. 46. --भेदकः, --भेदिन् m. a tailor. --योनिः the material of cloth (as cotton). --रंजनं safflower. --विलासः foppery in dress.
📄 मूल मुद्रित पृष्ठ (0954-b)
स्रोत: V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
🟢 वाचस्पत्यम् (संस्कृत-संस्कृत)संस्कृत में अर्थ
वस्त्र न० वस--ष्ट्रन् । परिधानाद्युपयुक्ते कार्पासादौ वसने । वस्त्रधारणगुणाः यथा “स्नातस्यानन्तरं सम्यग्वस्त्रेण तनुमार्जनम् । कान्तिप्रदं शरीरस्य कण्डूयादोषनाश- नम् । कौषेयं चित्रवस्त्रञ्च रक्तवस्त्रं तथैव च । वात- श्लेष्महरं तत्तु शीतकाले विघारयेत् ।” कौषेयं पट्टा- म्बरं तसरवस्त्रञ्च । “मेध्यं सुशीतं पित्तघ्नं काषायं वस्त्रमुच्यते । तद्धारयेदुष्णकाले तच्चापि लघु शस्यते ।” काषायं (कोकटी) इति लोके । कषायरागरक्तं वा । “शुक्लन्तु शुभदं वस्त्रं शीतातपनिवारणम्ः । नचोष्णं नच वा शीतं तत्तु वर्षासु धारयेत् । यशस्यं काम्य- मायुष्यं श्रीमदानन्दबर्द्धनम् । त्वच्यं वशीकरं रुच्यं नवं निर्मलमम्बरम् ।” काम्यं कामोद्दीपकम् । “कदापि न जनैः सद्भिर्धार्य्यं मलिनमम्बरम् । तत्तु कण्डू कृमिकरं ग्लान्यलक्ष्मीकरं परम् ।” अलक्ष्मीरशोभा दारिद्र्यं वा ।” भावप्र० अस्य परिधानविधिर्यथा भृगुः “विकच्छोऽनुत्तरीयश्च नग्नश्चावस्त्र एव च । श्रौतं स्मार्त्तं तथा कर्म न नग्न- श्चिन्तयेदपि । विकच्छः परीघानाद् गलितकच्छः । तथा च “परीधानात्वहिः कच्छा निबद्धा ह्यासुरी भवेत्” स्मृतिः “वामे पृष्ठे तथा नाभौ कच्छत्रयमुदाहृतम् । एभिः कच्छैः परीधत्ते यो विप्रः स शुचिः स्मृतः” । वौधायनः “नाभौ धृतञ्च यद्वस्त्रमाच्छादयति जानुनी । अन्तरीयं प्रशस्तं तदच्छिन्नमुभयोस्तयोः ।” प्रचेताः “दशा नाभौ प्रयोजयेत्” स्मृतिः “न स्यात् कर्मणि कञ्चुकीति” । उत्तरीयधारणं चोपवीतवत् “यथा यज्ञोपवीतञ्च धार्य्यते च द्विजोत्तमैः । तथा सन्धार्य्यते यत्नादुत्तरा- च्छादनं शुभम्” स्मृतेः । अत्र यथा द्विजोत्तमैः सव्यापसव्यत्वादिना उपवीतं धार्य्यते तथा उत्तराच्छा- दनमपि द्विजोत्तमैरिति प्रदर्शनमात्रम् प्रागुक्तभृगु- वचनेन सर्वेषां द्विवस्त्रताप्रतीतेः” पारस्करः “एकञ्चे- द्वासो भवति तस्य उत्तरार्द्धेण प्रच्छादयतीति” आ० त० रघु० । “वस्त्रपरीधाननक्षत्रादि “ब्रह्मानुराधवसुतिष्यवि- शाखहस्तचित्रोत्तराग्निपवनादितिरेवतीषु । जन्मर्क्षजीव बुधशुक्रदिनोत्सवादौ धार्य्यं नवं वसनमीश्वर देवतुष्ट्यै ।” ज्यो त० । “सूर्य्ये चाल्पधनं, [] व्रणः शशिदिने, क्लेशः सदा भूमिजे, वस्त्राणां बहुता वुधे, सुरगुरौ विद्यागमः सम्पदः । नानाभोगयुतप्रमोद शयनं विद्याङ्गना भार्गवे, शौरौस्युः खलु रोगशोककलहा वस्त्रे धृते नूतने” कर्मलोचनम् । अस्य क्षारसंयोग निषिद्धदिनानि यथा । “मन्दमङ्गलषष्ठीषु द्वादश्यां श्राद्ध- वासरे । वस्त्राणां क्षारसंयोगात्दहत्यासप्तमं कुलम् ।” आ० त० । परकीयवस्त्रधारणनिषेधो यथा “आसनं वसनं शय्या जाया- पत्यं कमण्डलुः । आत्मनः शुचिरेतानि न परेषां कदा- चन” । ईषद्धौतादिवस्त्रस्य पश्चिमाग्रादिप्रसारितवस्त्रस्य च अधौतत्वं यथा, “ईषद्धौतं स्त्रिया धौतं यद्धौतं रज- कस्य तु । अधौतं तद्विजानीद्दशादक्षिणपश्चिमे ।” कर्मलोचनम् । सत्यतपाः “प्रागग्रमुदग्रं वा घौतं वस्त्रं प्रसारयेत् । पश्चिमाग्रं दक्षिणाग्रं पुनः प्रक्षा- लनात् शुचि” अत्राग्रं दशा वृक्षवत् । प्रचेताः “स्वयं धोतेन कर्त्तव्या क्रिया धर्म्या विपश्चिता । न च रजक- घौतेन नाधौतेन भवेत् क्वचित् । पुत्रमित्रकलत्रेण स्वजातिबान्धवेन च । दासवर्गेण यद्धौतं तत् पवित्र- मिति स्थितिः” । स्नानोत्तरं उष्णीषवस्त्रस्य धार्य्यत्वं यथा उष्णीषधारणं शिरोजलापनयनाय । तेन म्नानानन्तरं धार्य्यम् । तथा च महाभारतम् “आप्लुत- स्याधिवासेन जलेन च सुगन्धिना । राजहंसनिभं प्राप्य उष्णीषं शिथिलार्पितम् । जलक्षयनिमित्तं वै वेष्टया- मास मूर्द्धनि” । शिथिलार्पितम् अगाढबद्वम् । निषिद्ध- वस्त्राणि यथा भारते “न स्यूतेन न दग्धेन पार- क्येण
स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🟤 शब्दकल्पद्रुम (संस्कृत-संस्कृत)संस्कृत में अर्थ
वस्त्रं, क्ली, (वस्यते आच्छाद्यतेऽनेनेति । वस आच्छादने + “सर्व्वधातुभ्यः ष्ट्रन् ।” उणा० ४ । १५८ । इति ष्ट्रन् ।) परिधानाद्युपयुक्तकार्पासादि- निर्म्मितवस्तु । कापड इति भाषा । तत्पर्य्यायः । आच्छादनम् २ वासः ३ चेलम् ४ वसनम् ५ अंशुकम् ६ । इत्यमरः ॥ सिचयः ७ प्रोतः ८ लक्तकः ९ कर्पटः १० शाठकः ११ कशिपुः १२ । इति जटाधरः ॥ वासनम् १३ द्बिचयम् १४ प्रोतम् १५ छादम् १६ वासम् १७ । इति शब्दरत्नावली ॥ * ॥ अस्य परिधानविधिर्यथा, भृगुः । “विकक्षोऽनुत्तरीयश्च नग्नश्चावस्त्र एव च । श्रौतं स्मार्त्तं तथा कर्म्म न नग्नश्चिन्तयेदपि ॥” विकक्षः परीधानासंवृतकच्छः । तथा च । “परीधानाद्वहिःकक्षा निबद्धा ह्यासुरी भवेत् ॥” स्मृतिः । “वामे पृष्ठे तथा नाभौ कक्षत्रयमुदाहृतम् । एभिः कक्षैः परीधत्ते यो विप्रः स शुचिः स्मृतः ॥” बौधायनः । “नाभौ धृतञ्च यद्वस्त्रमाच्छादयति जानुनी । अन्तरीयं प्रशस्तं तदच्छिन्नमुभयोस्तयोः ॥” प्रचेताः । दशा नाभौ प्रयोजयेत् । स्मृतिः । [] न स्यात् कर्म्मणि कञ्चुकीति । उत्तरीयधारणं चोपवीतवत् । “यथा यज्ञोपवीतञ्च धार्य्यते च द्विजोत्तमैः । तथा सन्धार्य्यते यत्नादुत्तराच्छादनं शुभम् ॥” इति स्मृतेः ॥ अत्र यथा द्विजोत्तमैः सव्यापसव्यत्वादिना उप- वीतं धार्य्यते तथा उत्तराच्छादनमपि द्विजो- त्तमैरिति प्रदर्शनमात्रम् । प्रागुक्तभृगुवचनेन सर्व्वेषां द्विवस्त्रताप्रतीतेः । पारस्करः । एकञ्चे- द्वासो भवति तस्य उत्तरार्द्धेन प्रच्छादयतीति । इत्याह्निकतत्त्वम् ॥ * ॥ अस्य धारणगुणाः । यथा, -- “काम्यं यशस्यमायुष्यमलक्ष्मीघ्नं प्रहर्षणम् । श्रीमत्पारिषदं शस्तं निर्म्मलाम्बरधारणम् ॥” इति राजवल्लभः ॥ * ॥ अपि च । “स्नातस्यानन्तरं सम्यग्वस्त्रेण तनुमार्जनम् । कान्तिप्रदं शरीरस्य कण्डूयादोषनाशनम् ॥ कौषेयं चित्रवस्त्रञ्च रक्तवस्त्रं तथैव च । वातश्लेष्महरं तत्तु शीतकाले विधारयेत् ॥” कौषेयं पट्टाम्बरं तसरवस्त्रञ्च । “मेध्यं सुशीतं पित्तघ्नं कषायं वस्त्रमुच्यते । तद्धारयेदुष्णकाले तच्चापि लघु शस्यते ॥” कषायं कोकची इति लोके । कषायरागरक्तं वा । “शुक्लन्तु शुभदं वस्त्रं शीतातपनिवारणम् । न चोष्णं न च वा शीतं तत्तु वर्षासु धारयेत् ॥ यशस्यं काम्यमायुष्यं श्रीमदानन्दवर्द्धनम् । त्वच्यं वशीकरं रुच्यं नवं निर्म्मलमम्बरम् ॥” काम्यं कामोद्दीपकम् । “कदापि न जनैः सद्भिर्धार्य्यं मलिनमम्बरम् । तत्तु कण्डूकृमिकरं ग्लान्यलक्ष्मीकरं परम् ॥” अलक्ष्मीरशोभा दादिद्रं वा । इति भाव- प्रकाशः ॥ * ॥ (अथ स्वप्ने वस्त्रादिदर्शनात् शुभफलं यथा, -- “कन्यां कुमारकान् गौरान् शुक्लवस्त्रान् सुते- क्षसः । यः पश्येल्लभते यो वा छत्रादर्शविषामिषम् ॥ शुक्लाः सुमनसो वस्त्रममेध्यालेपनं फलम् ॥ यस्य स्यादायुरारोग्यं वित्तं बहु च सोऽश्नुते ॥” इति वाभटे शारीरस्थाने षष्ठेऽध्याये ॥) अथ नववस्त्रपरीधानदिनम् । “ब्रह्मानुराधवसुतिष्यविशाखहस्त- चित्रोत्तराग्निपवनादितिरेवतीषु । जन्मर्क्षजीवबुधशुक्रदिनोत्सवादौ धार्य्यं नवं वसनमीश्वरदेवतुष्टौ ॥” इति ज्योतिस्तत्वम् ॥ * ॥ अपि च । “सूर्य्ये चाल्पधनं ब्रणः शशिदिने क्लेशः सदा भूमिजे वस्त्राणां बहुता बुधे सुरगुरौ विद्यागमः सम्पदः । [] नानाभोगयुतः प्रमोदशयनं दिव्याङ्गना भार्गवे शौरे स्युः खलु रोगशोककलहा वस्त्रे धृते नूतने ॥” इति कर्म्मलोचनम् ॥ * ॥ अस्य क्षारसंयोगनिषिद्धदिनानि यथा, -- “मन्दमङ्गलषष्ठीषु द्वादश्यां श्राद्धवासरे । वस्त्राणां क्षारसंयोगो दहत्यासप्तमं कुलम् ॥” इत्याह्निकाचारतत्त्वम् ॥ तद्दानफलं यथा, -- “वासोदश्चन्द्रसालोक्त्यमश्विसालोक्यमश्वदः ॥” इति शुद्धितत्त्वम् ॥ अपि च । “द्विजानां ये तु सततं शुभवस्त्रप्र
स्रोत: राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
🔗 इससे बने/आरम्भ होने वाले शब्द (समास व व्युत्पन्न)
🔁 जिनके अर्थ में "वस्त्र" आता है (60)
पट वस्त्र । कपड़ाचीर वस्त्र । कपडावसन वस्त्रशाटक वस्त्र । पटसिचय कपड़ा । परिधान । पोशाक । वस्त्रअंशुक कपड़ा । वस्त्रदुकूल क्षौम वस्त्र । सन या तीसो के रेशे का बना कपड़ाआच्छाद वस्त्र । परिधानपरिधाय पहनावा । परिधेय । वस्त्रवास्त्र रथ जिसपर परदा वा ओहार पड़ा हो । वस्त्र । से ढका रथसंव्यान उत्तरीय वस्त्रा । चादर । दुपट्टाचैल कपडा । वस्त्रजामा पहनावा । कपडा़ । वस्त्रपरिच्छंद वस्त्र । पहरावा । पोशाकसिवस वस्त्र । कपड़ासंव्याय आच्छादन । वस्त्रकापर पु संज्ञा पुं॰ कपडा । वस्त्रछाजन आच्छादन । वस्त्र । कपड़ाबाना पहनावा । वस्त्र । पोशाक । वेशविन्यास । भेसबासस वस्त्र । दे॰ 'वासस्' ।—नंद॰ ग्रं॰, पृ॰ ८४अंसुक वस्त्र । कपड़ाआच्छद आवरण । वस्त्रकप्पर पु † संज्ञा पुं॰ कपड़ा । वस्त्रपोशाक पहनने के कपडे़ । वस्त्र । परिधान । पहनावाबाससी पु संज्ञा पुं॰ कपड़ा । वस्त्रवाससू वस्त्र । कपड़ादधि दही । जमाया हुआ दूधवसि भवन । घरसिन शरीर । देहअंबर आकाश । आसमान । शून्यवासक अड़ूसावासन सुगंधित करना । बासना । धूपनकंचुक जामा । चोलक । चपकन । अचकनक्षौम अलसी या सन आदि के रेशों से बुना हुआ कपड़ातंत्र तंतु । ताँतनिवसन गाँवनिवास रहने की क्रिया या भावपरिधान किसी वस्तु से अपने शरीर को चारो ओर से छिपाना । कपड़े लपेटनाप्रवार प्रवरआच्छादन ढकना । आवरणपरिच्छद कपड़ा जो किसी वस्तु को ढक या छिपा सके । आच्छादन । ढाकनेवाली वस्तु । पट…स्नानीय जो नहाने के योग्य होवानप्रस्थ महुए का पेड़ । मधूक वूक्षधटिका पाँच सेर की एक तौल । पंसेरीपोतिका पोई की बेलआश्वासक दिलासा देनेवाला । भरोसा देनेवालातिरस्क्रिया तिरस्कार । आनादरवसित निवासस्थानपरिधानीय परिधान योग्य । पहनने योग्यबास रहने की क्रिया या भाव । निवासदेहावरण कवच । जिरह बख्तरतापस्वेद किसी प्रकार की उष्णता पहुँचाकर उत्पन्न किया हुआ या ज्वरादि की उष्णता क…बागा अंगे की तरह का पुराने समय का एक पहनावा जो घुटनों तक लंबा होता है और जि…बासन बरतन । भाँड़ारख्त असवाव । सामानलूगा † संज्ञा पुं॰चोलना पु † संज्ञा पुं॰पारचा टुकड़ा । खंड । धज्जी (विशे- षतः कपडे़, कागज आदि की)लत्ता फटा पुराना कपड़ा । चीथढ़ालुगरा † ^१ संज्ञा पुं॰
स्रोत व श्रेय:
  • हिन्दी शब्दसागर — नागरी प्रचारिणी सभा, काशी (1916–1928; सं. श्यामसुन्दरदास आदि)। सार्वजनिक (मुक्त) कृति। डिजिटल पाठ: indic-dict (sanskrit-coders) परियोजना — OCR से बना होने के कारण कहीं-कहीं वर्तनी-दोष सम्भव।
  • Monier-Williams, A Sanskrit-English Dictionary (1899). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries, University of Cologne — CC BY-NC-SA।
  • V. S. Apte, The Practical Sanskrit-English Dictionary (1890). डिजिटल संस्करण © The Sanskrit Library & Thomas Malten / Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA 3.0।
  • तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।
  • राधाकान्तदेव, शब्दकल्पद्रुम (1822–1858). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।

Cologne Digital Sanskrit Dictionaries के डिजिटल पाठ CC BY-NC-SA लाइसेंस के अनुसार निःशुल्क, गैर-व्यावसायिक उपयोग हेतु श्रेय सहित प्रस्तुत हैं। यह शब्दकोश-सेवा पूर्णतः निःशुल्क है। पुराने मुद्रित ग्रन्थों के डिजिटल पाठ में कहीं-कहीं टंकण/OCR दोष सम्भव हैं — सन्देह होने पर "📄 मूल मुद्रित पृष्ठ" देखें।

💬 ज्योतिषीय प्रश्न पूछें