दीप्ति स्त्री दीप--भावे क्तिन् । १ त्विषि प्रभायाम् “एवं दीप्त्या योजनं भाति सन्ध्या” वृ० सं०३१ अ० २ अभिव्यक्तौ च ज्ञानाभिव्यक्तिरूपदीप्तेः कारणानि पात० सू० भाष्ययोरु- क्तानि यथा “योगाङ्गानुष्ठानदशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः” सू० “योगाङ्गान्यष्टावभिधायिष्यमाणोनि तेषामनुष्ठानात् पञ्च पर्वणो विषयस्याशुद्धिरूपस्य क्षयोनाशस्तत्क्षये सम्यग्ज्ञान- स्याभिव्यक्तिर्यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथा तनुत्वमशुद्धिरापद्यते यथा यथा च क्षीयते तथा तथा च- क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्द्धते सा खल्वे षा पिवृद्धिः प्रकर्षमनुभवति आ विवेकख्यातेरा गुण- पुरुषस्वरूपविज्ञानादित्यर्थः । योगाङ्गानुष्ठानमशुद्धेर्वि- योगकारणं यथा परशुः छेद्यस्य, विवेकख्यातेस्तु प्राप्ति- कारणं यथा धर्मः सुखस्य, नान्यकारणम् । कति चैतानि कारणानि शास्त्रे भवन्ति नवैवेत्याह तद् यथा “उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः । वियोगान्य- त्वधृतयः कारणं नवधा स्मृतम्” इति । तत्रोत्पत्ति- कारणं मनोभवति ज्ञानस्य स्थितिकारणं मनसः पुरु- षार्थता शरोरस्येवाहार इति अभिव्यक्तिकारणं यथा रूपस्यालोकस्तथा रूपज्ञानम् । विकारकारणं मनसो [] विषयान्तरम् यथाग्निः पाक्यस्थ, प्रत्ययकारणं धूमज्ञान- मग्निज्ञानस्य, प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः वियोगकारणं तदेवाशुद्धेः अन्यत्वकारणं, यथा सुवर्ण- कारः सुवर्णस्य, एवमेकस्य प्रत्ययस्याविद्यामूढत्वे द्वेषो, दुःखत्वे रागः, सुखत्वे तत्त्वज्ञानं माध्यस्थ्ये, धृति- कारणं शरीरमिन्द्रियाणां, तानि च तस्य महाभूतानि शरीराणां तानि च परस्परं सर्वेषाम् । तैर्य्यग्यौनमा- नुषदैवतानि च परस्परार्थत्वादित्येवं नव कारणानि तानि च यथासम्भवं पदार्थान्तरेष्वपि योज्यानि” भा० स्त्रीणां यौवने अयत्नसाध्ये गुणभेदरूपे ३ सत्वजेऽलङ्कारे च “यौवने सत्वजास्तासामष्टाविंशतिसंख्यकाः । अल- ङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः । शोभा कान्तिश्च दीप्तिश्च माधुर्यञ्च प्रगल्भता” इत्युपक्रमे “रूपयौवम लालित्यभोगाद्यैरङ्गभूषणम् । शोभा प्रोक्ता, सैव का- न्तिर्मन्मथाप्यायिता दुतिः । कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते” सा० द० लक्षयित्वा उदाजहार यथा “तारुण्यस्य विलासः समधिकलावण्यसम्पदोहासः । धरणितलस्याभरणं युवजनमनसोवशीकरणम्” । दीप- कर्त्तरि संज्ञायां क्तिच् । ४ लाक्षायां ५ कांस्ये च राजनि० । विश्वदेवभेदे पु० “उष्णीनाभो नभोदश्च वि- श्वायुर्दीप्तिरेव च” भा० अनु० ९१ अ० विश्वदेवोक्तौ ।
📄 मूल मुद्रित पृष्ठ (3609-b) स्रोत: तारानाथ तर्कवाचस्पति, वाचस्पत्यम् (1873–1884). डिजिटल संस्करण: Cologne Digital Sanskrit Dictionaries — CC BY-NC-SA।